||Sundarakanda ||

|| Sarga 24|( Summary in Sanskrit & Telugu)

 

||om tat sat||

सुंदरकांड.
अथ चतुर्विंशस्सर्गः

ततः राक्षस्यः विकृताननः ततः सीतां उपागम्य अनार्य परुषं परुष अप्रियं वाक्यं तां ऊचुः ॥

' हे सीते सर्वभूत मनोहरे त्वं अंतःपुरे महार्हशयनोपेते वासं न अनुमन्यसे किं? त्वं मानुषी मानुषस्यैव भार्या मनो भहुमन्यसे (यदि तत्) प्रत्याहार रामान् त्वं जातु न अर्हसि॥ राक्षसेश्वरं त्रैलोक्य वसुभोक्तारं रावणं भर्तारं उपसंगम्य यथा सुखं विहरस्व॥शोभने अनिंदिते त्वं तु राज्यात् भ्रष्टं असिद्धार्थं मानुषं विक्लबं मानुषं तं रामं इच्छसि ॥

सीता पद्मनिबेक्षणा राक्षसीनां वचः श्रुत्वा अश्रुपूर्णाभ्यां नेत्राभ्यां इदं वचनं अब्रवीत् ॥

' ते संगताः लोकविद्वष्टं यत् इदं वाक्यं उदाहरथ एतत् वः मे मनसि किल्बिषं प्रतिभाति न ॥ मानुषी राक्षसस्य भार्या भवितुं न अर्हति । सर्वान् मां कामं खादत। नो वचः न करिष्यामि॥

' दीनः वा राज्यहीनः वा यो मे भर्तः सः मे गुरुः। तं नित्यं अनुरक्तास्मि यथा सुवर्चला सूर्यं अनुरक्तसि॥यथा महाभागा शची शक्रं समुपतिष्ठति ( तथैव)। यथा अरुंधती वशिष्ठं रोहिणी शशिनं च॥यथा लोपमुद्रा अगस्त्यं यथा सुकन्या च्यवनं यथा सावित्री सत्यवंतं च कपिलं श्रीमती यथा ॥ यथा मदयंती सौदासं इव केसिनी सगरं यथा भैमी दमयंती नैषधं इव अनुव्रता तथा अहं इक्ष्वाकुनाथं पतिं रामं अनुव्रता ॥

ततः रावण च उदिता राक्षस्यः सीतायाः वचनं श्रुत्वा क्रोधमूर्छिताः अबवत् । परुषैः वाक्यः भर्त्सयंति स्म॥ कपिः सः हनुमान् निर्वाक्यः शिंशुपाद्रुमे अवलीनः सीतां संतर्जयंतीः ताः राक्षसीः अश्रुणोत्॥ वेपमानां तां समन्ततः अभिक्रम्य संकृद्धाः दीप्तान् प्रलंबान् दशनच्छदान् भृशं संलिलिहुः॥

परमकृद्धाः आशु परश्वधान् प्रगृह्य ऊचुश्च। इयं राक्षसाधिपं रावणं भर्तारं न अर्हसि इति ॥ भीमाभिः राक्षसीभिः भर्त्स्यमाना सा वरानना सभाष्पं अपसर्पन्ती तां शिंशुपां उपागमत्॥ ततः विशालाक्षी सीता तां शिंशुपां अभिगम्य राक्षसीभिः समावृता शोकपरिप्लुता तस्थौ ॥ ताः राक्षस्यः कृशां दीनवदनां मलिन अंबर धारिणीं तां सीतां समंततः भर्त्सयां चक्रिरे॥

ततः भीमदर्शना कुपिताकारा कराना निर्णतोदरी विनतानाम राक्षसी तां अब्रवीत् ॥ सीते भर्तुः स्नेहः निदर्शितः । एतावत् पर्याप्तं भद्रे ।सर्वत्र अतिकृतं व्यसनाय उपकल्पते॥ मैथिली परितुष्टा अस्मि । ते मानुषः विथिः कृतः । ते भद्रं। मम ब्रुवंत्याः वचः अपि कुरु॥ सर्वराक्षसां भर्तारं विक्रांतं रूपवंतं सुरेशं वासवं इव दक्षिणं त्यागशीलं च सर्वस्य प्रियदर्शनम् रावणं भर्तारं भज ॥ मानुषं कृपणं रामं त्यक्त्वा रावणं आश्रय। वैदेही दिव्याभरणभूषिता दिव्यांगरागा अद्य प्रभृति सर्वेषां लोकानां ईश्वरी भव यथा अग्नेः देवी स्वाहा इंद्रस्य शची इव ॥ ते कृपणेन गतायुषः रामेण किं। एतत् उक्तं मे वाक्यं यदि त्वं न करिष्यसि त्वां अस्मिन् मुहूर्ते वयं सर्वाः भक्षयिष्यामहे ॥

लंबमान पयोधरा अन्या विकटा नाम तु मुष्टिं उद्यम्य गर्जती सीतां अब्रवीत् ॥ सुदुर्मते मैथिलि अप्रियरूपाणि बहूनि तव वचनानि अनुक्रोशात् मृदुत्वात् सोढानि ॥ मैथिलि कालपुरस्कृतां हितं अन्यैः वाक्यं न कुरुषे। दुरासदम् समुद्रस्य पारम् आनीता असि।घोरं रावणांतः पुरं प्रविष्टा असि॥ रावणस्य गृहे रुद्धां अस्माभिः सुरक्षितां त्वां परित्रातुं साक्षात् पुरंदरः अपि न शक्तः ॥ मैथिली हितवादिन्या मम वचनं कुरुष्व॥ अलं अश्रु प्रपातेन । अनर्थकम् शोकं त्यज॥ एतान् नित्य दैन्यतां त्यज । प्रीतिं च हर्षं च भज॥सीते राक्षसराजेन सह यथा सुखं क्रीडा॥ भीरु स्त्रीणां यौवनं यथा अध्रुवं जानासि हि । ते यावत् न अतिक्रमेत् तावत् सुखं अवाप्नु हि॥ मदिरेक्षणे रम्याणि उद्यानानि पर्वत उपवनानि च त्वं राक्षसराजेन सह चर ॥ सुंदरी सप्त सहस्राणी स्त्री ते वशे स्थास्यंति ।सर्वरक्षसां भर्तारं रावणं भज॥ मैथिली यदि मे व्याहृतं वाक्यं यथावत् न करिष्यसि ते हृदयं उत्पाट्य वा भक्षयिष्यामि ॥

ततः चंडोदरी नाम राक्षसी क्रोधमूर्छिता महत् शूलं भ्रामयंती इदं वचनं अब्रवीत्॥हरिणलोलाक्षीं त्रासोत्कंपित पयोधरां रावणेन हृतां इमाम् दृष्ट्वा मे महान् दौहृदः अभूत् ॥ यकृत् प्लीहं उत्पीडम् सबंधनम् हृदयं च अन्त्राण्यपि तथा शीर्षं खादेयं इति मे मतिः॥

ततः प्रघसा नाम राक्षसी (इदं) वाक्यं अब्रवीत्। अस्याः नृशंसायाः कंठं पीड्याम । किं आस्यते॥ ततः राज्ञे निवेद्यतां सा मानुषी मृतः इति ॥ ततः सः खादत इति वक्षति । अत्र कश्चन संदेहः न॥

ततः अजामुखी नाम राक्षसी वाक्यं अब्रवीत्। सर्वाः इमाम् विशस्य ततः समान् पिंडकान् कुरुत॥ ततः सर्वाः विभजाम । मे विवादः न रोचते। क्षिप्रं पेयं उच्चावचम् बहु लेह्यां आनीयताम् ॥

ततः शूर्पणखा नाम राक्षसी वाक्यं अब्रवीत् । अजामुखी यत् उक्तं तदेव मम रोचते॥ क्षिप्रं सर्वशोकविनाशिनी सुरा च आनीयताम् । मानुषा मांसम् आस्वाद्य अथ निकुंभलां नृत्यामः॥

सुघोराभिः राक्षसीभिः एवं संभर्त्स्यमाना सुरसुतोपमा सा सीता धैर्यं उत्सृज्य रोदिति॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे चतुर्विंशस्सर्गः॥

Thus ends the twenty fourth Sarga of Sundarakanda in Ramayana the first ever poem composed in Sanskrit by the first poet sage Valmiki.

|| om tat sat||